Pages

Yantrodharaka Hanumath stotram In Hindi

Yantrodharaka Hanumath stotram Hindi Lyrics (Text) 
Yantrodharaka Hanumath stotram Hindi Script
Yantrodharaka Hanumath stotram In Hindi
Yantrodharaka Hanumath
stotram In Hindi
नमामि दूतं रामस्य सुखदं च सुरद्रुमम्
पीनवृत्त महाबाहुं सर्वशत्रुनिवारणम्        ॥१॥

नानारत्नसमायुक्तं कुंडलादिविराजितम्।
सर्वदाभीऽष्टदातारं सतां वै दृढमाहवॆ    ॥२॥

वासिनं चक्रतीर्थस्य दक्षिणस्थगिरौ सदा।
तुंगांबॊधितरंगस्य वातॆनपरिशॊभितॆ        ॥३॥

नानादॆशगतैः सद्भिः सॆव्यमानं नृपॊत्तमैः।
धूपदीपादिनैवॆद्यैः पंचखाद्यैश्चशक्तितः        ॥४॥

भजामि श्रीहनुमंतं हॆमकांतिसमप्रभम्।
व्यासतीर्थयतींद्रॆण पूजितं च विधानतः        ॥५॥

त्रिवारं यः पठॆन्नित्यं स्तॊत्रं भक्त्याद्विजॊत्तमः ।
वांचितं लभतॆऽभीष्टं षण्मासाभ्यंतरॆ खलु    ॥६॥

पुत्रार्थी लभतॆ पुत्रं यशॊर्थी लभतॆ यशः।
विद्यार्थी लभतॆ विद्यां धनार्थीलभतॆ धनम्    ॥७॥

सर्वथा माऽस्तु संदॆहॊ हरिः साक्षी जगत्पतिः ।
यः करॊत्यत्र संदॆहं स याति नरकंण् ध्रुवम्    ॥८॥

॥इति श्रीव्यासराजयतिकृत यंत्रॊद्धारक हनूमत् स्तॊत्रम् ॥